Friday 1 July 2011

श्रीमद्भगवद्गीतायाः योगमार्गस्य विवेचनम्



प्रोफेसर अजय कुमार
बी0एस0के0 काॅलेज, मैथन (धनबाद) झारखण्ड
श्रीमद्भगवद्गीतायां ज्ञानकर्मभक्तीनां विलक्षणः समन्वयः ग्रन्थस्यास्य महिमानं प्रदर्शयति। अत्र योगशब्देन जीवत्मपरमात्मनोः एकीकरणमिति बोध्यम्। तत्र दुःखेभ्यः आत्यन्तिकवियोगः सच्चिदानन्देन सह आत्यन्तिकसंयोगः योगस्य अभीष्टं विद्यते। गीतानुसारेण योगः धारण-ध्यान-समाधि-रूपत्त्वात् ज्ञानयोगः, कामनारहितकर्मरूपत्त्वाच्च कर्मयोगः अस्ति। किञ्च भगवत्त्तत्त्वस्य सम्यग्ज्ञानं भगवत्प्रवेशश्चेति योगस्य योगत्त्वम्। तथाहि श्रीमद्भगवद्गीतायाम् -
भक्त्या त्वनन्या शक्य अहमेवंविधोऽर्जुन।1
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप।।
सर्वप्रथमं तावत् ज्ञानयोगस्य विवेचनं क्रियते। योगिनः लक्ष्यम् अपरोक्षानुभूतिद्वारा आत्मसाक्षात्कारः एव अस्ति यः ज्ञानात् ऋते न सम्भवति। ज्ञानं विना नास्ति योगस्य सार्थक्यं प्रत्युत् शारीरिकं मानसिकं च व्यायाममात्रमिति। योगेन विषयभोगस्य स्मृतिः तिष्ठति एव। विषयभोगस्य इच्छायाः आत्यन्तिकनिवृत्तिः आत्मज्ञानेनैव भवितुं शक्नोति। तद्यथा -
विषया विनिवर्तन्ते निराहारस्यदेहिनः।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते।।2

यथैधांसि समिधोऽग्निः भस्मसात् कुरुते तथैव ज्ञानाग्निः सर्वकर्माणि। संसाराब्धिः ज्ञानयानेनैव पारयितुं शक्यते। कर्मणः परिसमाप्तिः ज्ञाने एव भवति। ज्ञानेनैव परमानन्दप्राप्तिः। जगति नास्ति ज्ञानेन सदृशं पवित्रं कश्चन पदार्थः। यथाहि गीतायाम् -
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।3
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दते।।
भक्तेषु ज्ञानी सर्वश्रेष्ठः। भगवतो आत्मा च ज्ञानीति।
ज्ञानिनः सर्वेषु चेतनाचेतनपदार्थेषु भगवन्तं आत्मानं वा पश्यन्ति। किं बहुना स्वात्मनि ते विश्वाखिलं पश्यन्ति। यथोक्तं भगवता श्रीकृष्णेन -
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति।4
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति।।
गीतायाः कर्मयोगस्य नास्ति कश्चिद्विरोधः ज्ञानयोगात्। यतोहि निष्कामकर्म ज्ञानिभिः एव सम्पद्यते। नराणां कृते कर्मणां सर्वथा त्यागोऽपि असंभवम्। प्रकृतेः सत्त्वरजस्तमोगुणत्त्वात् जीवात्मा कर्मसु बध्यते। किञ्च लोकोऽयं कर्मबन्धनः इत्युच्यते। गीतायाः कर्मयोगे प्रवृत्तिनिवृत्त्योः अद्भुतं समन्वयं दृश्यते। ग्रन्थेऽस्मिन् कर्मनिषेधो नास्ति प्रत्युत् कर्मणि फलासक्तिः न स्यादिति निषेधिता। वासना-कामना-फलाकांक्षादयो कर्मणः विषदन्ताः यैः कत्र्ता बध्यते। पुनश्च गीतायाम् ’सन्यास’ शब्देन कामनात्यागः इति बोध्यः, न कर्मत्याग इति।
5काम्यानां कर्मणां न्यासं सन्यासं कवयो विदुः।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः।।
गीतायाम् इदमपि उक्तं यत् अस्माभिः कर्मणि एव प्रवृतिः विधेया, न कर्मफलेष्वासक्तिरिति-
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।5
मा कर्मफलहेतुर्भूमा ते सङ्गोऽस्त्वकर्मणि।।
अत्राक्षिप्यते यत् फलेच्छां विना कोऽपि जनः कर्मसु न प्रवर्तते। मनोवैज्ञानिकदृशा इदं सत्यमेव प्रतिभाति। परन्तु गीतायाः निष्कामकर्म ज्ञानीनां कृते एव अस्ति। न तु साधारणजनानां कृते। अत्र निष्कामकर्म ज्ञानभक्तीभ्याम् अनुप्राणितम् आस्ति। आरम्भतः कर्मणः कामना आवश्यकं अस्ति चेत् समस्तान् लौकिककामान् विहाय साधकैः आध्यात्मिक-उन्न्ात्त्यर्थं कर्माणि कत्र्तव्यानि। भगवत्प्रीत्यर्थं भगवदर्पणबुद्धया कर्मसम्पादनेन आध्यात्मिकी उन्न्ातिः सम्भवति। एवञ्च एभिः कर्मभिः नरो न बध्यते यथा कमलपत्रं जलेन न लिप्यते। उक्तमपि -
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा।।
इदं पूर्णतया सत्यम् अस्ति यत् पूर्णतया निष्कामकर्म सिद्धपुरुषैः एव कत्र्तुं शक्यते। जीवनमुक्तपुरुषाणां कर्माणि परोपकाराय भवन्ति, स्वार्थरहितत्त्वात, परार्थयुक्तत्त्वाच्चेति। ब्रह्मज्ञाने सति सिद्धानां कृते नास्ति किमपि प्राप्तव्यम्, ज्ञातव्यम्, कत्र्तव्यञ्चेति। तद्यथा -
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः।8
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते।।
गीताज्ञानस्य सारभूतः भक्तिः एवास्ति। भक्तिः गीतायाः हृदयमिति। अस्याः उपदेशारम्भः शरणागत्या एव भवति। यदा कौन्तेयः धर्मविषये मोहावच्छिन्न्ाो सन् भगवता श्रीकृष्णेन प्रार्थयति यत् भवतां शिष्योऽहं तस्मात् मोहरहितः कुरु माम्। यथाहि -
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढ़चेता।
यच्छेªयः स्यान्न्ािश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्न्ाम्।।
अस्य ग्रन्थस्य नवमेऽध्यायेऽपि भगवता शरणागतिमहिमा वर्णिता। ग्रन्थस्य पर्यवसानमपि शरणागत्यामेव जातम्। तद्यथा -
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज।10
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।।
गीतायाः भक्तियोगः ज्ञानकर्माभ्याम् अनुप्राणितोऽस्ति। पराभक्ति-परज्ञान-निष्कामकर्माणि च पर्यायभूतानि एव। एतत्त्रयेण निर्विकल्प-अपरोक्ष-आत्मानुभूतिः इति गृह्यते। भक्तिज्ञानकर्मणां भेदः लौकिकव्यवहारे एव अस्ति यतोहि अन्ततः एते त्रयो अपरोक्षानुभूत्यामेव पर्यवस्यन्ति। लौकिकज्ञानं बुद्धि-विकल्पजन्यम् ज्ञातृज्ञेयद्वैतालम्बितम् च। पराज्ञानम् अद्वैत-निर्विकल्पानुभूतिम्। भक्तिशब्देन च भगवतः सेवा स्मरणं चाभीष्येते। भक्तिश्च भक्तभगवतोः द्वैताश्रिता परञ्च पराभक्त्याम् अखण्डानन्दस्वरूपे भगवत्स्वरूपे भक्तभगवन्तौ एकाकारित्वं अधिगच्छतः। पुनश्च लौकिककर्मणि कामना भवत्येव तस्मादिदं कर्तृ-कर्म-द्वैतावलम्बितम्। अपरतः निष्कामकर्म जीवनमुक्तेः अद्वैतावस्थायाः द्योतकमस्ति, कामनारहितत्त्वात् कर्तृत्वाभिमानशून्यत्त्वाच्च।
भगवता श्रीकृष्णेनोक्तं यत् मम भक्तः न प्रणश्यति। दुराचारोऽपि निश्छलभक्त्या साधुवत् सञ्जायते यतोहि शीघ्रमेव स धर्मात्मास्वरूपम् अधिगच्छति यथाहि -
अपि चेत्सुदुराचारो भजते मामन्न्ायभाक्। 11
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः।। 9/30।।
क्षिप्रं भवति धर्मात्या शश्वच्छान्तिं निगच्छति। 12
कौन्तेय प्रति जानीहि न मे भक्तः प्रणश्यति।ं। 9/31।।
निष्कर्षतः वक्तुं शक्यते यत् गीतायाः कर्मज्ञानभक्तीषु नास्ति कश्चिद् विरोधः। एतत्त्न्न्ायः भगवत्प्राप्तौ एव पर्यवस्यन्ति। कर्मयोगः, ज्ञानयोगः भक्तियोगश्च  परस्परम् अनुप्राणिताः, भगवत्प्राप्तौ सहायकाश्चेति।

- संदर्भसूचयः -
1. श्रीमदभगवद्गीता 1/56 गीता प्रेस गोरखपुर
2. तदेव 2/59
3. तदेव 4/38
4. तदेव 6/30
5. तदेव 18/2
6. तदेव 2/47
7. तदेव 5/10
8. तदेव 3/17
9ण् तदेव 2/7
10.तदेव 18/66
11.तदेव 9/30
12.तदेव 9/31