Thursday 1 April 2010

श्रीमद्भागवतस्य भक्तिशास्त्रत्वम्


रूपम पाठक
शोधच्छात्रा, संस्कृत विद्या धर्म विज्ञान संकाय, (साहित्य विभाग) काशी हिन्दू विश्वविद्यालय, वाराणसी।


जानन्त्येव प्रायः सर्वे सुमेधसः यदस्मिन् जगतीतले तत्रापि कर्म भूमौ भारताजिरे जाता जीवाः स्वकृत कर्मवशाद् चतुरशीति लक्षयोनिषु जन्ममरण परम्परामनुभवन्तः कदाचिदीशानुग्रहेण मानवशरीरं प्राप्नुवन्ति अत उक्तम् आग्नेये-
नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा।
कवित्वं दुर्लभं तत्र व्युत्पत्तिस्तु सुदुर्लभा।।1
तदतिदुर्लभं मानवशरीरमवाप्यापि जन्तुः पुनः-पुनः स्वसुखार्थं विषयासक्त अर्थ कामोपार्जने लीनो दुःख-परम्परामनुभवन् पुनः-पुनः जन्ममरणचक्रे चङ्क्रममाणः यथा श्रीमद्भागवते-
बुद्बुदा इव तोयेषु मशका इव जन्तुषु।
जायन्ते मरणायैव कथाश्रवण वर्जिताः।।2
इत्थं जीवानामतिशयं दुखं विचार्य महर्षयः जीवेष्वनुग्रहं विदधानास्तेषामुद्धारार्थं धर्मार्थकाममोक्षाख्यान् चतुर्वर्गानुपदिदिशुः वेद-शास्त्र-काव्य-पुराणादीनां प्रणयनं कृतम्। न्यायदर्शनं पदार्थान् प्रतिपादयन्नपि परमपुरुषार्थरूपं निःश्रेयस प्राप्तिरेवास्य फलं ब्रूते।
वैशेषिकदर्शनमपि विशेषपदार्थं प्रतिपादयन् चतुर्वर्गस्य मूलं धर्मं साधयति।
सांख्यदर्शनमपि चतुर्विंशति-तत्त्वानि वर्णयन् दुःखत्रय-विधाताय निवृत्तिरूपमत्यन्तपुरुषार्थमुपदिशति। योगदर्शनं जीवेश्वरयोरभेदज्ञानपूर्वकं समाधिना कैवल्यप्राप्तिमुपदिशति। श्रीमद्भागवतमपि शुकशास्त्रं भक्तिशास्त्रं महापुराणमपि अस्ति। तस्यापि भगवत्तत्त्वसाक्षात्कार द्वारा परमपुरुषार्थोपलब्धिर्भवति। तदुक्तं भगवता श्रीकृष्णेन गीतायाम्-
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्।।3
श्रीमद्भागवतेऽपि-
आत्मारामाश्च मुनयोनिग्र्रन्था अप्युरूक्रमे।
कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः।।4
श्रीमद्भागवतानुसारं भक्तिसुखं स्वतन्त्रपुरुषार्थः यथा योगशास्त्रे समाधिसुखमिव स्वतन्त्र पुरुषार्थः। जीवाः द्विविधा भवन्ति केचन् द्रुतचित्ताः अपरे अद्रुतचित्ताः, अद्रुतचित्तानां विषयेषु निर्वेदपूर्वकं तत्वज्ञानं भवति तदेव शान्तरसपदेन अभिधीयते। द्रुतचित्तानां तु भगवल्लीला तथा श्रवणादि श्रद्धापूर्विका भक्तिः, इयं भगवद्भक्तिः जननमरणरूप दुःख बहुलात् संसारादुद्धृत्य परमानन्दपूर्ण स्थिति भक्तान् प्रयच्छति एतत् तत्वं यद्यपि प्रायः सर्वपुराणेषु वर्णितं, तथाऽपि श्रीमद्भागवतेमहापुराणे भक्तितत्वस्य सर्वाङ्गीणं विश्लेषणं प्रस्तुतमस्ति। परमात्मनि भक्त्या समः कल्याणकारी कश्चन् अन्यः पन्था दृग्गोचरो न भवति। भक्तः भक्त्या यावत् पुलकिताङ्गद्रवीभूतहृदयो विगलिताऽनन्दाश्रुः न भवति तावत् अन्तःकरणं परिपूतं न भवति। यदा समाधौ चित्तवृत्तिनिरोधात् मनः परमात्मनिविलीनं भवति तदा सर्वविषयाः विनष्टाः भवन्ति पापाश्च नश्यन्ति। अन्तःकरणं च शुद्धं भवति। तथैव भगवद्भक्त्या परमानन्दसम्बन्धात् अघौघः प्रणश्यति, अनन्तरं अग्निदाहात् यथा सुवर्णनिर्मलं भवति। स्वाभाविकं स्वरूपं च प्राप्नोति तथैव भगवद्भक्त्याऽपि मलिनसंस्कारः गलितो भवति। जीवः स्वाभाविकं निजं स्वरूपं प्राप्य शान्तिमनुभवति। तदुक्तं श्रीमद्भागवते-
तदा पुमान् मुक्तसमस्तबन्धन- स्तद्भावभावानुकृताशया कृतिः।
निर्दग्धबीजानुशयो महीयसा  भक्तिप्रयोगेण समेत्यधोक्षजम्।।5
पुरूषार्थचुतुष्टयस्य प्राप्तिः मानव योनौ एव सम्भवति। अतएव मानवयोनिसर्वोत्कृष्टा उच्यते। मानवानां सृष्टिं विधाय एव जगत्स्रष्टा बह्माऽतीव सन्तुष्टोऽभूत् तदुक्तं श्रीमद्भागवते-
सृष्ट्वा पुराणि विविधान्यजयाऽऽत्मशक्त्या वृक्षान् सरीसृपपशून् खगदंशमत्स्यान्।
तैस्तैरतुष्टहृदयः पुरुषं विधाय ब्रह्मावलोकधिषणं मुदमाप देवः।।6
अतो मानवशरीरं सम्प्राप्य ये विषयभोगेलीनाः ते स्वहस्तगतं चिन्तामणिरत्नं परित्याज्य काचे मग्नाः भवन्ति, पुनः-पुनः जायन्तेम्रियन्ते च हा कथंचिद् भवसागरं तर्तुं देवदुर्लभं मानवशरीरं लब्ध्वापि वंचिताः भूत्वा पुनः संसारसागरे पतन्ति, ते आत्मघातिनः उच्यन्ते। अतो मानवशरीरस्य फलं परमात्मसाक्षात्कार एव, सोऽवश्यं सम्पादनीयः। अयमेव परमपुरुषार्थः इष्टसिद्धिः अमूल्यासम्पत्तिरस्ति। श्रीमद्भागवते मुचुकुन्देनाऽपि भगवतः श्रीकृष्णस्य समक्षम् उक्तम् यथा-
लब्ध्वा जनो दुर्लभमत्र मानुषं  कथंचिदण्यङ्गमयत्नतोऽनघ।
पादारविन्दं न भजत्यसन्मति  र्गृहान्धकूपे पतितो यथा पशुः।।7
श्रीमद्भागवतं भवबन्धनतोमुक्तये प्रधानतया साधनत्रयं निर्दिशति।
योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया।
ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित्।।8
श्रीमद्भागवतमाहात्म्येऽपि प्रोक्तम्-
सत्यादित्रियुगे बोधवैराग्यौ मुक्तिसाधकौ।
कलौ तु केवला भक्तिब्र्रह्मसायुज्यकारिणी।।9
इयं भक्तिर्भगवतः प्राणतोऽप्यधिका प्रिया, इत्युच्यते श्रीमद्भागवते
त्वं तु भक्ते! प्रिया तस्य सततं प्राणतोऽधिका।
त्वया हूतस्तु भगवान् याति नीचगृहेष्वपि।।10
यद्यपि भगवत्भक्तौ जीवमात्रस्याधिकारः प्रतिपादितो दृश्यते। भगवद्भक्ति प्राप्तये जाति-कुल-गुण-रूप-विद्या धनादीनामपेक्षा नास्ति,! केवलं भगवति प्रेमोत्कर्ष एवापेक्षिता भवति।
सर्वकामनाहीनः भगवत्यनुरक्तः जनः सर्वतो भावेन भगवच्चरणशरणागतिरेव भक्तिरूच्यते। इयं भक्तिः त्रिधाः साधनरूपा, भावरूपा, प्रेमारूपा च तत्र साधनभक्तिद्र्विधा- वैधी रागानुगा च। शास्त्रे यस्याः विधानं वर्तते सा वैधी भक्तिः रागावाप्ता या भक्तिः सा रागानुगा वर्तते।
भक्तेः अधिकारी चतुर्विधः प्रोक्तः-
चतुर्विधा भजन्ते मां जनासुकृतीनोऽर्जुन।
आर्तोजिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ।।11
तत्र विशुद्धान्तःकरणः वासनारहितः पुरुषः शुद्ध भक्तेः अधिकारी भवति। यावत् भोगस्य मोक्षस्य वा हृदि स्पृहा भवति तावत् भक्तेः अभ्युदयो न भवति। अतः श्रीकृष्णचरणारविन्दयोः सेवया निर्मलचेतषां भक्तानां मोक्षार्यमपि कदापि स्पृहा न भवति।
इत्थं मुक्तिः भक्तानां कृते त्याज्यतया एव निरूपिता परं सालोक्य, सारूप्य, सायुज्य, सामीप्यरूपा मुक्तिः भक्तिः विरोधिनी न भवति। सिद्धान्ततः विष्णुश्रीकृष्णयोः भेदोनास्ति परं विष्णु स्वरूपाऽपेक्षया कृष्णरूपे मधुररसस्थितिः स्वभावतो वर्तते।
अतः श्रीमद्भागवते प्रधानत्वेन रसरूपेण भक्तिरेव।
संदर्भ ग्रन्थः
1. साहित्यदर्पण- प्रथमपरिच्छेद  पृ0 सं0-7
2. श्रीमद्भगवतमहापुराण माहात्म्य- (5/63) पृ0 सं0-32
3. श्रीमद्भगवद्गीता- (18/55) पृ0 सं0-315
4. श्रीमद्भागवतमहापुराण- (1/7/10) पृ0 सं0-67
5. श्रीमद्भागवतमहापुराण (7/7/36) पृ0 सं0-604
6. श्रीमद्भागवत महापुराण (11/9/28) पृ0 सं0 - 653
7. श्रीमद्भागवतमहापुराण (10/51/47) पृ0 सं0 - 384
8. श्रीमद्भागवतमहापुराण (11/20/6) पृ0 सं0 - 706
9. श्रीमद्भागवतमहापुराण माहात्म्य(2/4) पृ0 सं0 - 8
10. श्रीमद्भागवतमहापुराण माहात्म्य(2/3) पृ0 सं0 - 8
11. श्रीमद्भगवद्गीता - (7/16)