Wednesday 2 January 2013

संस्कृतनाटकेषु नारी


घनश्याम बैरवा

सर्वःप्रायेण लोकोऽयं सुखमिच्छति सर्वदा। सुखस्य च स्त्रियो मूलं नानाशीलाराश्च ताः।।ना.शा.20.63
भरतमुनिमतानुसारं जगति मानवमात्रस्य लक्ष्यं सुखमस्ति। तस्य मूलाधारं च नारी इति। मनुना कथ्यते यत् ‘यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।’ इति वाक्येन सिध्यति यत् तत्काले नारी समाजे श्रेष्ठपदं प्राप्नोति स्म। व्यासेन कथितं यत् भार्या पुरुषस्य अर्धभागमस्ति सैव पुरुषस्य श्रेष्ठमित्रमस्ति, भार्या त्रिवर्गस्य मूलमस्ति। वासुदेवशरणेन उक्तं यत् स्त्री वृत्तस्य व्यासः इति पुरुषः तस्य परिधिरिति। लालालाजपतरायेण अपि उक्तं यत् स्त्रीणां प्रश्नः पुरुषाणामेव प्रश्नः, पुरुषाणां-उन्नतिः स्त्रीणां-उन्नत्या सह युज्यते। नारी कन्यागृहिणीमात् रूपेण परिवारसमाजराष्ट्राणां मंगलविधात्री अस्ति।

संस्कृतनाटकेषु नारीणामवस्था ठाट्सोन्मुखी दृश्यते। तस्याः वैदिकयुगीनदेवीपदं लुप्तप्रायमस्ति। आसीदस्मिन् काले नारी सामाजिक-नियमेषु बन्धनेषु च आवद्ध। नारी-स्वातंत्रयं नाममात्रमेवासीत्।
आर्य! धर्माचरणेऽपि परवशोऽयं जनः।
गुरोः पुनरस्या अनुरूपवरप्रदाने संकल्पः।। अभि. शा. अंक 1, पृ. 21
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी। अभि. शा. 5.26
नाटकेषु प्रयुक्तैः कुटुम्बिनी-गृहिणी-शब्दैरिदमभिव्यज्यते यत् नारीणं-कार्य-क्षेत्रं विस्तृतं न भवति स्म अपितु गृहपरिवारयोः सीमापर्यान्तमेव आसीत्, तासां गृहिणीपदं अत्यन्त-उत्तरदायित्वपूर्णं मन्यते। तस्य प्राप्तिः सहजसुगमं च नासीत् तस्य कृते त्यागतपसी चावश्यकीति। दुश्चरित्रादुराचारिणी च नारी कुलस्य कृते आदिस्वरूपा भवति स्म।
......यान्त्येवं गृहिणी पदं युवतयो वामाः कुलस्याधयः।। अभि. शा. 4.18
कुलवधूनां कृते तासां पतिरेव मण्डनमासीत्।
आर्यपुत्र एव मम आभरणविशेषः इति जानातु भवति। मृच्छ. 6 पृ. 317
स्वप्नवासवदत्तनाटके महादेवीवासवदत्ता स्वपत्युः उत्कार्षाय सम्पूर्णराजभोगान् त्यक्त्वा प्रच्छन्नवेषं धारयति इति, अपि च पद्मावत्या सह स्वपत्युः विवाहनिष्पादने सहायिका सिद्ध भवति। एषा त्यागस्य चरमसीमा। पत्युः सम्मानस्नेहं च प्राप्तिरेव पतिव्रतानां परं ध्येयं आसीत् अतः भतर््स्नेहस्य अधिकारिणी नारी मृत्युप्राप्तेऽपि अजरा-अमरा मन्यते स्म तस्याः विषये विवाहादि-शुभावसरे कथ्यते-
भर्तुर्बहुमताभव, भर्तुर्बहुमासूचकं महादेवी शब्दं लभस्व। अभि.शा.अंक 4 पृ. 317
धन्य सा स्त्री या तथा वेत्ति भर्ता। भर्तृस्नेहात् सा हि दग्धाप्यदग्धा।। सव.वा. 1.13
पतिपरित्यक्तानां नारीणां जीवनं निष्फलमेव भवति स्म। गृहेषु नारीणां स्थाननिर्धारणं तस्याः मातृत्वे आधारितम्। पुत्रवती नारी एव वंशपरम्परायाः अविच्छिन्नविधात्री गण्यते स्म तेन कारणेन सा एव कुलस्य प्रतिष्ठा आसीत्।
संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा। अभि.शा. 6.24
अभिज्ञानषाकुन्तले विरहपीडितदुष्यन्तस्य शोकस्य मूलकारणं तस्य शकुन्तलां प्रति अखण्डस्नेहमेवास्ति परं च तस्य दुखस्य मूलहेतुरयमप्यस्ति यत् आपन्नसत्वां शकुन्तलां विहाय तेन स्ववंशं समाप्तम्। मातृत्वं नारीणां चरमपरिणतिरिति मातेति सुधावर्षिणीमभिधां प्राप्त्वा नारी स्वजीवनं सार्थकं मन्यते। वीरप्रसविनी माता गौरवशालिनी भवति स्म। पुत्रदर्शनेन माता रोमांचिता जाता।
वत्से! वीरप्रसविनी भव। सुतं त्वमपि समाजं सेव पूरूमवाप्नुहि।। अभि.शा. अंक.4 पृ.65
इयं ते जननी प्राप्ता त्वदालोकनतत्परा। स्नेह प्रस्वनिर्भिन्नमुद्वहन्ती स्तनांशुकम्।।विक्र.5.12
माता किल मनुष्याणं देवतानां च देवतम्। मध्य. वव्या. 1.37
तत्कालीनयुगे नारी सामाजिकार्थिकश्च दृष्ट्या परतन्त्रैव। समाजे गृहिणी- पत्नी-प्रेयसी-माता इति विधिसंज्ञायासु समादृतापि सा व्यक्तिगताचरणे स्वतन्त्रा नासीत्। तस्याः कृते स्वेच्छाचारिता न बहुमन्यते स्म। दुष्यन्तेन निरादृशकुन्तलायै कण्वशिष्यः कथयति यत्।
शार्ङरवः- सरोषं निवृत्यद्ध किं पुरोभागे स्वातं×यमवलम्बसे? अभि.शा. अंक.5 पृ. 64
शारद्वत- तदेषा भवतः कान्ता त्यज वैनां गृहाण वा।
अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः।
सतीमपि ज्ञाति कुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशंकते।। अभि.शा. 5.17
शार्ङरवः- अथ तु वेत्सि शुचिव्रतमात्मनः। पति कुले तव दास्यमपि क्षमम्।।अभि.शा.5.27
पुरुषाणां बहुविवाहस्य स्वीकृतिरपि नारीणं परतन्त्रतायां सहयोगं करोति स्म। नारी पतिना निरादृता अपि पतिकुले निवसितुं विवशासीत्, परं च पुरुषः सच्चरित्रायाः पत्न्यः विद्यमानायामपि बहुविवाहकृते स्वतन्त्रः किल। परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे। अभि.शा.3.17
समाजे सतीप्रथाऽपि प्रचलिता परं च अस्यां कठोरता नासीत्। मृच्छकटिकप्रकरणे पतिव्रता धूता स्वेच्छया पत्युः मृते सति अग्नौ प्रवेष्टुमिच्छति।
आलोच्यनाटकानां अध्ययनेन ज्ञायते यतः तत्समाजे पर्दा-प्रथाऽपि आसीत्। अभिज्ञानशाकुन्तले शकुन्तला दुष्यन्तस्य समक्षं अवगुण्ठनवती भूत्वा आगच्छति। अन्तःपुरस्य नार्यः धनाढ्य-स्त्रियोऽपि च कंचुकावृतशिविकायां स्थित्वा बहिर्गच्छन्ति स्म। अवगुण्ठनं नारीणां प्रतीकमासीत्। का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या। अभि.शा. 5.13
समाजे कुलनारीणामतिरिक्तं गणिकाभिधाऽपि नारी भवति स्म। याः शिक्षिता अपि विभिन्नकलासु नृत्यसंगीतादिषु दक्षाः भवन्ति स्म। पण्यस्त्रियः विक्रयवस्तूनां सदृशाः।
यस्यार्थास्तस्य सा कान्ता धनहार्यो ह्यसौ जनः। मृच्छ. 5.9
समुद्रवीचीवचलस्वभावाः सन्ध्याभ्रलेखेव मुहूर्तरागाः।
स्त्रियो हृतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत् त्यजन्ति।। मृच्छ. 4.15
अलं चतुशालमिमं प्रवेश्य प्रकाशनारीधृत एष यस्मात्। मृच्छ. 3.7
एताः निम्ना-अपवित्रश्च। कतिपयगणिका श्रेष्ठापि आसन् या अर्थस्यापेक्षागुणान् बहुमन्यन्ते स्म। वसन्तसेना एवं रूपा, एता गणिका ईप्सितपुरुषैः सह विवाहं कृत्वा कुलवधूपदं प्राप्नुवन्ति स्म। यदा-कदा राजानोपि गणिकानां सद्गुणैः प्रभावितो भूत्वा ताः ‘वधू’ इति अभिधां दत्तवन्तः। यत्नेन सेवितव्यः पुरुषः कुलशीलवान् दरिद्रोऽपि। मृच्छ. 8.33
  सुदृष्टः क्रियतामेष शिरसा वन्द्यतां जनः। यत्र ते दुर्लभं प्राप्तं वधूषब्दावगुण्ठनम्।। मृच्छ. 4.24
आर्ये वसन्तसेने! प्रितुष्टो राजा भवतीं वधूशब्देना नुगृझति। मृच्छ. 10 पृ.598
स्त्रीशिक्षायाः पूर्णस्वातं×यमासीत् नाटकेषु शिक्षितानां नारीणां वर्णनं प्राप्यते। शकुन्तलायाः ललितपदसंवलितप्रेमपत्रेण स्द्धियति यत् सा शिक्षिता इति। वीणावादने प्रवीणा वासवदता इत्यपि प्रमाणी भवति।
समाजे नारीणां धार्मिकदृष्ट्या महत्वपूर्णं स्थानं वर्तते स्म। धार्मिकक्षेत्रे स्त्री पत्युः सहयोगिनी धर्मचारिणी च आसीत्। धार्मिकक्रिया पत्नीं विना न सम्पन्ना भवति स्म। अतः सहधर्माचरणाय विवाहानिवार्यः संस्कारः इति। वानप्रस्थाश्रमेऽपि सा पत्युः धर्मपालने सहायिका भवति स्म।
न्नु सहधर्मचारिणी खल्वहम्। प्रतिमा. अंक 2 पृ. 39
तदिदानीमापन्नसत्वेयं प्रतिगृह्यतां सहधर्माचरणायेति। अभि.शा. अंक 5 पृ. 86
उक्तविवेचनेनैवं निष्कर्षं जातं यत् नार्यः प्रति आलोच्यनाटककारसाहित्यकारयोः च दृष्टिः अत्यन्ता-उदारा-विशदा चासीत्। नारी तेभ्यः पवित्रापूजनीया च। तत्काले नारीणां ठाट्सोन्मुखीमवस्थां विलोक्य तेषां मनांसि विचलितानि भवन्ति स्म। अतः तासामुत्कर्षाय च स्वकृतिषु ताः विशिष्टं स्थानं दत्तम्। नारीविषयकप्रचलितभ्रान्तीनां निवारणाय तस्याः श्रेष्ठस्वरूपस्यचित्रणमकुर्वन्। तैः आधि स्वरूपाः दुश्शीला नार्यः स्वनाटकेषु आदर्शपदं न दत्तम् अपितु पत्युः सहधर्मचारिणी, गुरुजनानां शुश्रूषाविधात्री, त्यागस्वरूपा, देवीरूपा नारीणं चित्रं-चित्रितमिति।
।।इति।।

डाॅ0 घनश्याम बैरवा
व्याख्याता, संस्कृत विभाग
डाॅ0 बी0आर0अम्बेडकर राजकीय महाविद्यालय,
श्रीगंगानगर, राजस्थान।